तुम्बी

सुधाव्याख्या

त्विति । तुम्बति रुचिम् । ‘तुवि अर्दने' (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । इन् (उ० ४.११८) वा । ‘कृत्-' (ग० ४.१.४५) इति वा ङीष् ॥