शम्बरम्

सुधाव्याख्या

शं वृणोति । 'वृञ् वरणे’ (स्वा० उ० से०) । पचाद्यच् (३.१.१३४) । शंवं संवरणं राति–इति वा । संवयति । ‘षंव संबन्धने’ । ‘शंव च' (चु० प० से०) । बाहुलकादरन्, इति वा । दन्त्यादिस्तालव्यादिश्च । ‘शंवरं सलिले, पुंसि मृगदैत्यविशेषयोः । शंवरी चाखुपर्ण्यां स्यात्' इति विश्वः ।