नीरम्

सुधाव्याख्या

नीयते । णीञ् प्रापणे’ (भ्वा० उ० से०) । ‘स्फायि-' (उ० २.१३) इति रक् । निर्गतं रादग्नेर्वा । ‘निरादयः-' (वा० २.२.१८) इति समासः । अग्नेरापः इति (तैत्तिरीय) श्रुतेः । निष्क्रान्तो रोऽस्मात् । 'प्रादिभ्यो धातुजस्य-’ (वा० २.२.२४) इति बहुव्रीहिः । अद्भ्योऽग्निः’ इति स्मृतेः । यत्तु-ढ्रलोपे-’ (६.३.१११) इति दीर्घेण 'नीरम्’ इति स्वामी इति मुकुटः । तन्न । नयति 'नीरम्’ इति स्वामिग्रन्थादुक्तार्थानवगमात् । निश्चयेन राति सुखम् । ‘रा दाने’ (अ० प० अ०) । आतश्चोपसर्गे (३.१.१३६) इति को वा । नीरवार्वारिनारम्' इति संसारावर्तसंमते 'नार’ इति पाठे नरस्येदम् । ’तस्येदम्' (४.३.१२०) इत्यण् । 'आपो वै नरसूनवः’ इति स्मृतेः । (नारस्तर्णकनीरयोः' इति मेदिनी) ।


प्रक्रिया

धातुः - णीञ् प्रापणे


णी - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नी - णो नः 6.1.65
नी + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
नी + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नीर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नीर + अम् - अतोऽम् 7.1.24
नीरम् - अमि पूर्वः 6.1.107