अर्णः

सुधाव्याख्या

ऋच्छति । ‘ऋ गतौ' (भ्वा० प० अ०) । 'उदके नुट् च' (उ० ४.१९७) इत्यसुन् नुडागमश्च । यत्तु–ऋणोति-इति विगृहीतं स्वामिना । तन्न । अर्तेरुच्च इत्यतः 'अर्तेः’ इत्यनुवृत्तेः स्वादेस्तत्राग्रहणात् ।