क्षीरम्

सुधाव्याख्या

क्षियति । “क्षि निवासगत्योः’ (तु० प० अ०) । 'शुसिचि(क्षि)मीनां दीर्घश्च (उ० २.२५) इति क्रन् दीर्घत्वं च । यद्वा घस्यते । 'घसे: किच्च' (उ० ४.३४) इतीरन् । ‘गमहनजन-' (६.४.९८) इत्युपधालोपः । यत्तु-क्षयति--इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तन्न । उपन्यस्तधातोस्तादृशरूपाभावात् । क्षीरं पानीयदुग्धयोः' इति हैमः ।