पाथः

सुधाव्याख्या

पाति । ‘पा रक्षणे’ (अ० प० से०) 'उदके थुट्च (उ० ४.२०४) इत्यसुन् थुट् । यत्तु-पीयते-इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । तन्न । ‘पातेर्बले जुट्' इत्यनुवृत्तिविरोधात् । तत्र पातेर्ग्रहणम्, न पिबतेः ।