कबन्धम्

सुधाव्याख्या

कं सुखं बध्नाति । ‘बन्ध बन्धने । (क्र्या० प० अ०) । ‘कर्मण्यण्' (३.२.१) । ‘कबन्धं सलिले रुण्डे शाश्वतादिदमेकं नाम । ‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरे । क्लीबं जले, पुंस्युदरे राहुरक्षोविशेषयोः । केचित्तु-- 'कमन्धम्’ इति पठित्वा द्वे नामनी इत्याहुः ।