अम्भः

सुधाव्याख्या

आप्नोति, आप्यते वा । ‘आप्लृ व्याप्तौ (स्वा० प० अ०) । 'उदके नुम्भौ च' (उ० ४.२१०) इत्यसुन् ह्रस्वो भान्तादेशो नुमागमश्च । अम्भते वा । ‘अभि शब्दे’ (भ्वा० आ० से०) । असुन् (उ० ४.१८९) इत्यतः । यत्तु-अमति–इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । यच्च-अमेर्भुक् च-इति सूत्रोपन्यसनं मुकुटेन कृतम् । तन्न । तदुक्तसूत्रस्योज्ज्वलदत्तादावनुपलम्भात् अस्मदुपन्यस्तस्योपलम्भाच्च ॥