अरम्

सुधाव्याख्या

ऋच्छति, इयर्ति वा । 'ऋ गतौ (भ्वा०, जु० प० अ०) । पचाद्यच् (३.१.१३४) । अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोरपि' इति शाश्वतः । ‘अलम्' इत्यव्ययस्य वालमूल-'(वा० ८.२.१८) इत्यादिना रेफपक्षे तु 'अरम्' इत्यव्ययमपि । अप् (३.३.५७) बाहुलकात् क्लीबत्वम् इति मुकुटस्य प्रमादः बाहुलकस्यागतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् । एतेन स्वाम्युक्तिरपि परास्ता ।।