द्रुतम्

सुधाव्याख्या

द्रवति स्म । द्रु गतौ’ (भ्वा० प० अ०) । ‘गत्यर्था (३.४.७२) इति कर्तरि क्तः । (अथ द्रुतं त्रिषु । शीघ्रे विलीने विद्राणे') । यत्तु—भावे क्तः-इति मुकुटेनोक्तम् । तन्न । त्वरितमित्यादावपि तथात्वप्रसङ्गात् । वैषम्ये बीजाभावात् । एतेन ‘लङ्घ्यते' इति कर्मव्युत्पत्तिरपि परास्ता ।।