क्षिप्रम्

सुधाव्याख्या

क्षिपति । क्षिप प्रेरणे’ (तु० उ० अ०) । ‘स्फायितछि-’ (उ० २.१३) इति रक् ।।


प्रक्रिया

धातुः - क्षिपँ प्रेरणे


क्षिप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षिप् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दि-दहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
क्षिप् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षिप्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षिप्र + अम् - अतोऽम् 7.1.24
क्षिप्रम् - अमि पूर्वः 6.1.107