जवः

सुधाव्याख्या

‘जु’ इति सौत्रो (३.२.१५०) धातुः । जवनम् । 'ॠदोरप्' (३.३.५७) । चवर्गादिः ('जवो वेगवति त्रिषु । पुंलिङ्गस्तु भवेद्वेगे चौण्ड्रपुष्पे जवा स्मृता । (५) इति मुकुटः। वस्तुतस्तु रंह आदिष्वपि भावव्युत्पत्तिरेव न्याय्या ।