लघुम्

सुधाव्याख्या

'लघि गतौ” (भ्वा० आ० से०) । लङ्घते । ‘लङ्घिबंह्योर्नलोपश्च' (उ० १.२९) इति कुः, नलोपश्च । लघि शोषणे’ (भ्वा० प० से०) इति तु मुकुटस्य प्रमादः (‘लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीबम् । शीघ्रे च कृष्णागुरुणि स्पृक्कानामौषधौ तु स्त्री') (वालमूललघ्वलमङ्गुलीनां वा लो रमापद्यते (वा० ८.२.१८) इति रत्वपक्षे 'रघु’ इत्यपि । 'वरुणस्य रघुस्यदः इति प्रयोगात्)