रयः

सुधाव्याख्या

रिणात्यनेन । ‘री गतिरेषणयो:’ (क्र्या० प० अ०) । 'एरच्' (३.३.५६) । रयः—इति स्वामिमुकुटौ । तन्न । करणे ल्युटो बाधकस्य सत्त्वात् । तस्मात् ‘पुंसि-'(३.३.११८) इति घः। रयतेऽनेन वा । ‘रय गतौ’ (भ्वा० आ० से०) पुंसि-’ (३.३.११८) इति घः। ‘हलश्च’ (३.३.१२१) इति घञि तु संज्ञापूर्वकत्वावृद्ध्यभावः।।