शीघ्रम्

सुधाव्याख्या

रंह आदयः सवेगगतिवचनाः । शीघ्रादयस्तु धर्मवचना एव' । अत एव शीघ्रं पचति’ इति प्रयोगः, न तु 'जवं पचति" इति–इति वदन्ति । वस्तुतस्तु रंहः प्रभृतयो वेगाख्यगुणपराः शीघ्रादयस्तु कालाल्पत्वपरा:-इति । शिङ्घति व्याप्नोति । ‘शिघि आघ्राणे' (भ्वा० प० से०) । 'शीघ्रादयश्च' (?) इति रगन्तो निपातितः । ('शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ त्रिषु')