त्वरितम्

सुधाव्याख्या

त्वरते स्म । ‘ञित्वरा सम्भ्रमे’ (भ्वा० प० से०) । ‘गत्यर्थाकर्मक-' (३.४.७२) इति कर्तरि क्तः। 'रुष्यमत्वरसंघुषास्वनाम् (७.२.२८) इति वेट् । (त्वरितं वेगतद्वतो:) । इडभावे तूर्णम्‘-ज्वरत्वर (६.४.२०) इत्यूठ् । 'रदाभ्याम्- (८.२.४२) इति नत्वम् । ‘रषाभ्याम्-’ (८.४.१) इति णत्वम् ।