अमरकोशः


श्लोकः

अयनं वर्म मार्गाध्वपन्थान: पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अयन अयनम् नपुंसकलिङ्गः अयन्ते ईयते वानेना । युच् उणादिः अकारान्तः
2 वर्त्मन् वर्त्म नपुंसकलिङ्गः वर्ततेऽत्र वर्तन्तेऽनेन वा । मनिन् उणादिः नकारान्तः
3 मार्ग मार्गः पुंलिङ्गः मृज्यते वितृणीक्रियते पादैः । घञ् कृत् अकारान्तः
4 अध्वन् अध्वा पुंलिङ्गः अत्ति बलम् (पथिकानाम्) । क्वनिप् उणादिः नकारान्तः
5 पथिन् पन्थाः पुंलिङ्गः पथन्तेऽनेन । इनि उणादिः नकारान्तः
6 पदवी पदवी स्त्रीलिङ्गः पद्यतेऽनया । अवि उणादिः ईकारान्तः
7 सृति सृतिः स्त्रीलिङ्गः सरन्त्यनया । क्तिच् कृत् इकारान्तः
8 सरणि सरणिः स्त्रीलिङ्गः सरन्त्यनया । अनि उणादिः इकारान्तः
9 पद्धति पद्धतिः स्त्रीलिङ्गः पादाभ्यां हन्यते । क्तिन् कृत् इकारान्तः
10 पद्या पद्या स्त्रीलिङ्गः पादाय हिता । यत् तद्धितः आकारान्तः
11 वर्तनी वर्तनी स्त्रीलिङ्गः वर्तन्तेऽनया । अनि उणादिः ईकारान्तः
12 एकपदी एकपदी स्त्रीलिङ्गः एकः पादोऽस्याम् । बहुव्रीहिः समासः ईकारान्तः