अध्वा

सुधाव्याख्या

अत्ति बलम् (पथिकानाम्) । ‘अद भक्षणे’ (अ० प० अ०) । अदेर्धश्च' (उ० ४.११६) इति क्वनिप्, धश्चान्तादेशः । यत्तु-अत्यते सततं गम्यते अनेन-इति मुकुटेनोक्तम् । तन्न । उक्तसूत्रविरोधात् । अततेर्धक्वनिपोरविधानात् । (अध्वा ना पथि संस्थाने सास्रवस्कन्धकालयोः')