अयनम्

सुधाव्याख्या

अयनमिति । अयन्ते ईयते वानेना । 'करणा-'(३.३.११७) इति मुकुटः । तन्न । घञो ल्युडपवादत्वात् । आतो युच् (उ० २.७८) । कर्मणि वा ल्युट् (३.३.११३) । ‘अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ' इति हैम: ॥