पद्धतिः

सुधाव्याख्या

पादाभ्यां हन्यते । ‘हन हिंसागत्योः (अ० प० अ०) । क्तिन् (३.३.९४) । हिमकाषिहतिषु च' (६.३.५४) इति पद्भावः । ‘पद्धतिः पथि पङ्क्तौ च' इति हैमः ।


प्रक्रिया

धातुः - हनँ हिंसागत्योः


हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हन् + क्तिन् - स्त्रियां क्तिन् 3.3.94
हन् + ति - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हति - अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37
पाद + भ्याम् + हति - कर्तृकरणे कृता बहुलम्‌ 2.1.32, उपपदमतिङ् 2.2.19
पाद + हति - सुपो धातुप्रातिपदिकयोः 2.4.71
पद् + हति - हिमकाषिहतिषु च 6.3.54
पद् + धति - झयो होऽन्यतरस्याम् 8.4.62
पद्धति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पद्धति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पद्धति + रु - ससजुषो रुः 8.2.66
पद्धति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पद्धतिः - खरवसानयोर्विसर्जनीयः 8.3.15