सृतिः

सुधाव्याख्या

सरन्त्यनया । ‘सृ गतौ’ (भ्वा० प० अ०) । क्तिन् (३.३९४) इति मुकुटः । तन्न । अजब्भ्याम्-' (वा० ३.३.१२६) इति ल्युट्प्रसङ्गात् । (अत:) करणस्यापि कर्तृत्वविवक्षायां क्तिच् क्तौ च' (३.३१७४) इति क्तिच्‘ । सृतिर्गतौ पथि' इति हैमः ।