एकपदी

सुधाव्याख्या

एकः पादोऽस्याम् । कुम्भपदीषु च' (५.४ १३९) इति निपातितः । यद्वा ‘संख्यासुपूर्वस्य' (५.४.१४०) इति पादस्यान्तलोपः । पादोऽन्यतरस्याम्' (४.१.८) इति वा ङीप् 'पादः पत्' (६.४.१४०) । अत्र पक्षे ‘एकपाद् इत्यपि रूपान्तरम् । एकपदं तत्काले नपुंसकं, वर्मनि स्त्री स्यात् द्वादश मार्गस्य ।