सरणिः

सुधाव्याख्या

‘अर्ति-' (उ० २.१०२) इत्यनिः । सरणिः श्रेणिवर्त्मनो:’ इति दन्त्यादौ रभसः । ‘शुभं शुभे प्रदीप्ते च, शरणिः पथि चावलौ’ इति तालव्यादावजयात्तालव्यादिरपि । तत्र 'शॄ हिंसायाम् (क्र्या० प० से०) । बाहुलकादनिः ॥