मार्गः

सुधाव्याख्या

मृज्यते वितृणीक्रियते पादैः । ‘मृजू शुद्धौ (अ० प० से०) मार्यते । 'मार्ग अन्वेषणे’ (चु० उ० से०) वा । यत्तु-मृग्यतेऽनेन-इति मुकुटेनोक्तम् । तन्न । अल्लोपस्य स्थानिवत्त्वाल्लक्षणाभावान्नोपधावृद्धिः स्यात् । 'मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि’ इति हैमः ।