अमरकोशः


श्लोकः

सर्वं स्यात्तैजसं लोहं विकारस्त्वयसः कुशी । क्षार: काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोह लोहम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
2 कुशी कुशी स्त्रीलिङ्गः कुं भूमिं श्यति । कृत् ईकारान्तः
3 क्षार क्षारः पुंलिङ्गः क्षरति । कृत् अकारान्तः
4 काच काचः पुंलिङ्गः कचते । अच् कृत् अकारान्तः
5 चपल चपलः पुंलिङ्गः चोपति । कल उणादिः अकारान्तः
6 रस रसः पुंलिङ्गः रस्यते । अच् कृत् अकारान्तः
7 सूत सूतः पुंलिङ्गः शिवेन सूयते स्म । क्त कृत् अकारान्तः
8 पारद पारदः पुंलिङ्गः, नपुंसकलिङ्गः पारं ददाति । कृत् अकारान्तः