काचः

सुधाव्याख्या

कचते । ‘कच बन्धने दीप्तौ च (भ्वा० आ० से०) । अच् (३.१.१३४) । प्रज्ञाद्यण् (५.४.३८) काचयति वा । अच् (३.१.१३४) । ‘काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे’ इति विश्वः (मेदिनी) ॥