कुशी

सुधाव्याख्या

वीति । कुं भूमिं श्यति । ‘शो तनूकरणे’ (दि० प० अ०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । ‘जानपद-’ (४.१.४२) इति ङीष् । ‘कुशी फालेऽपि वल्गायां (कुशा, पापिष्ठमत्तयोः । कुशो वाच्यवदाख्यातः)’ इति विश्वः । ‘कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वल्या कुशं जले' (इति हैमः) ॥