सूतः

सुधाव्याख्या

शिवेन सूयते स्म । ‘षू प्रसवे' (दि० आ० से०) । क्तः (३.२.१०२) । ‘सूतस्तु सारथौ तक्ष्णि क्षत्त्रियाद्ब्राह्मणीसुते । वन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु’ इति विश्वः (मेदिनी) ॥