रसः

सुधाव्याख्या

रस्यते । ‘रस आस्वादने' चुराद्यदन्तः । ‘एरच्’ (३.३.५६) । रसयति धातून् वा । अच् (३.१.१३४) । ‘रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठासल्लकीक्षितिकङ्गुषु’ (इति हैमः) ॥