पारदः

सुधाव्याख्या

पारं ददाति । ‘डुदाञ् दाने' (जु० उ० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘पारते' इति पाठे पारं तनोति । ‘तनु विस्तारे (त० उ० से०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति इः । ‘रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते' इति तारपालः । ‘पारतस्तु मनाक्पाण्डुः सूतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः’ इति शब्दार्णवः ॥


प्रक्रिया

धातुः -


पारदः
x000D