चपलः

सुधाव्याख्या

अथेति । चोपति । ‘चुप मन्दायां गतौ' (भ्वा० प० से०) । ‘चुपेरच्चोपधायाः’ (उ० १.१११) इति कलः । यद्वा चपनम् । ‘चप शक्तौ’ () । ण्यन्तः । ‘एरच्’ (३.३.५६) । चपं लाति । ‘ला आदाने' (अ० प० अ०) । कः (३.२.३) । 'चपलश्चोरके चले । क्षणिके चिकुरे शीघ्र पारदे प्रस्तरान्तरे । मीने च चपला तु स्यात् पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामपि’ इति हेमचन्द्रः ॥