अमरकोशः


श्लोकः

अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अश्मन्त अश्मन्तम् नपुंसकलिङ्गः अश्मनोऽप्यन्तोऽत्र । बहुव्रीहिः समासः अकारान्तः
2 उध्दान उध्दानम् नपुंसकलिङ्गः उद् धीयतेऽत्र । ल्युट् कृत् अकारान्तः
3 अधिश्रयणी अधिश्रयणी स्त्रीलिङ्गः अधिश्रीयतेऽत्र । ल्युट् कृत् ईकारान्तः
4 चुल्ली चुल्ली स्त्रीलिङ्गः चुल्ल्यतेऽत्र । इन् उणादिः ईकारान्तः
5 अन्तिका अन्तिका स्त्रीलिङ्गः अन्त्यतेऽत्र । ण्वुल् कृत् आकारान्तः
6 अङ्गारधानिका अङ्गारधानिका स्त्रीलिङ्गः अङ्गारा धीयन्तेऽस्याम् । ल्युट् कृत् आकारान्तः
7 अङ्गारशकती अङ्गारशकती स्त्रीलिङ्गः अङ्गाराणां शकटी ॥ तत्पुरुषः समासः ईकारान्तः
8 हसन्ती हसन्ती स्त्रीलिङ्गः हसति । शतृ कृत् ईकारान्तः