उद्धानम्

सुधाव्याख्या

उद् धीयतेऽत्र । ‘धाञः’ (जु० उ० अ०) । ल्युट् (३.३.११७) । ‘उद्धानमुद्गते वाच्यलिङ्गं चुल्ल्यां नपुंसकम्’ इति विश्वः (मेदिनी) । ‘उद्ध्मानम्’ इति पाठे तु—उद्ध्मायतेऽत्र । ‘ध्मा शब्दादौ’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) ॥