अधिश्रयणी

सुधाव्याख्या

अधिश्रीयतेऽत्र । ‘श्रीञ् पाके’ (क्र्या० उ० अ०) । अधिकरणे ल्युट् (३.३.११७) । ङीप् (४.१.१५) ॥


प्रक्रिया

धातुः -


श्रीञ् पाके
श्री - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अधि + श्री + ल्युट् - करणाधिकरणयोश्च 3.3.117
अधि + श्री + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अधि + श्री + अन - युवोरनाकौ 7.1.1
अधि + श्रे + अन - सार्वधातुकार्धधातुकयोः 7.3.84
अधि + श्रय् + अन - एचोऽयवायावः 6.1.78
अधिश्रयण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
अधिश्रयण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
अधिश्रयण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अधिश्रयण् + ई - यस्येति च 6.4.148
अधिश्रयणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अधिश्रयणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अधिश्रयणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D