चुल्लिः

सुधाव्याख्या

चुल्ल्यतेऽत्र । ‘चुल्ल भावकरणे’ । (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘चुद्यतेऽत्राग्निरिति वा’ । ‘चुद प्रेरणे’ (चु० प० से०) । बाहुलकाल्लिक् । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् ॥