अश्मन्तम्

सुधाव्याख्या

अश्मेति । अश्मनोऽप्यन्तोऽत्र । शकन्ध्वादिः (वा० ६.१.९४) । ‘अश्मन्तमशुभे चुल्ल्यां मरणेऽनवधावपि । क्षेत्रेऽपि इति विश्वः (मेदिनी) । ‘अस्वन्त’ इति पाठे असूनामन्तोऽत्र ॥


प्रक्रिया

धातुः -


अश्म + अन्त
अश्मन्त - शकन्ध्वादिषु
अश्मन्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अश्मन्त + अम् - अतोऽम् 7.1.24
अश्मन्तम् - अमि पूर्वः 6.1.107
x000D