अङ्गारधानिका

सुधाव्याख्या

अङ्गेति । अङ्गारा धीयन्तेऽस्याम् । धाञः (जु० उ० अ०) ल्युट् (३.३.११६) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


डुधाञ् धारणपोषणयोः
धा - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
अङ्गार + धा + ल्युट् - कर्मणि च येन संस्पर्शात्‌ कर्तुः शरीरसुखम् 3.3.116
अङ्गार + धा + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अङ्गार + धा + अन - युवोरनाकौ 7.1.1
अङ्गार + धान - अकः सवर्णे दीर्घः 6.1.101
अङ्गार + धान + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
अङ्गार + धान + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अङ्गार + धान् + ई - यस्येति च 6.4.148
अङ्गारधानी + कन् - न सामिवचने 5.4.5
अङ्गारधानी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अङ्गारधानिक - केऽणः 7.4.13
अङ्गारधानिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अङ्गारधानिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अङ्गारधानिका - अकः सवर्णे दीर्घः 6.1.101
अङ्गारधानिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्गारधानिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गारधानिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D