अन्तिका

सुधाव्याख्या

अन्त्यतेऽत्र । ‘अति बन्धने’ (भ्वा० आ० से०) । ण्वुल् (३.३.१०९) । ‘अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ । चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्तौ कीर्त्यतेऽन्तिका (इति मेदिनी) ॥