अमरकोशः


श्लोकः

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी । घोटके पीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीत वीतम् नपुंसकलिङ्गः वेति, स्म युद्धादिकर्मणः । क्त कृत् अकारान्तः
2 वारी वारी स्त्रीलिङ्गः वार्यतेऽनया । इञ् उणादिः ईकारान्तः
3 गजबन्धनी गजबन्धनी स्त्रीलिङ्गः गजस्य बन्धनी ल्युट् कृत् ईकारान्तः
4 घोटक घोटकः पुंलिङ्गः घोटते । ण्वुल् कृत् अकारान्तः
5 पीति पीतिः पुंलिङ्गः पिबति । क्तिन् कृत् इकारान्तः
6 तुरग तुरगः पुंलिङ्गः तोरणम् । कृत् अकारान्तः
7 तुरङ्ग तुरङ्गः पुंलिङ्गः तुरेण गच्छति । खच् कृत् अकारान्तः
8 अश्व अश्वः पुंलिङ्गः अश्नुते । क्वन् उणादिः अकारान्तः
9 तुरङ्गम तुरङ्गमः पुंलिङ्गः तुरेण गच्छति । खच् कृत् अकारान्तः