तुरगः

सुधाव्याख्या

तोरणम् । 'तुर त्वरणे’ (जु० प० से०) । ‘घञर्थे कः’ (वा० ३.३.५८) । बाहुलकात् घञ् (३.३.१८) वा । संज्ञा पूर्वकत्वान्न गुणः । तुरेण त्वरया गच्छति । ‘अन्येभ्योऽपि-’ (वा० ३.२.४८) इति डः । ‘तुरगी चाश्वगन्धायां तुरगश्चित्तवाजिनोः (इति मेदिनी) ॥


प्रक्रिया

धातुः -


तुरँ त्वरणे
तुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुर् + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
तुर् + अ -लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुर + टा + गम् + ड - अन्यत्रापि दृश्यत इति वक्तव्यम् (3.3.48) । वार्तिकम्, उपपदमतिङ् 2.2.19
तुर + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
तुर + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
तुर + ग् + अ - टेः 6.4.143
तुरग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुरग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुरग + रु - ससजुषो रुः 8.2.66
तुरग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुरगः - खरवसानयोर्विसर्जनीयः 8.3.15