वारी

सुधाव्याख्या

वेति । वार्यतेऽनया । ‘वृञ्' (स्वा० उ० से०) । ण्यन्तः । ‘वसिवपियजि-' (उ० ४.१२५) इतीञ् । ‘वारी स्याद्गजबन्धन्यां कलश्यामपि योषिति । वारिर्वाग्गजबन्धन्योः स्त्री क्लीबेऽम्बुनि बालुके’ (इति मेदिनी) ॥