वीतम्

सुधाव्याख्या

वीति । वेति, स्म युद्धादिकर्मणः । ‘वी गत्यादौ’ (अ० प० से०) । अजति स्म वा । 'अज गतौ' (भ्वा० प० से०) । ‘गत्यर्था-' (३.४.७२) इति क्तः । ‘वीतमसारगजे स्यादङ्गशकर्मण्यसारतुरगे च' (इति मेदिनी) ॥ न सारो बलमस्य । हस्ती चाश्वश्च । सेनाङ्गत्वादेकत्वम् (२.४.२) ॥