घोटकः

सुधाव्याख्या

घोटेति । घोटते । ‘घुट परिवर्तने’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । पचाद्यचि 'घोटः’ अपि । 'घोटसैन्धवगन्धर्वा हयवाजितुरङ्गमाः’ इति रभसः ॥