तुरङ्गः

सुधाव्याख्या

तुरेण गच्छति । 'गमेश्च (३.२.४७) इति खच् । ‘खच्च वा डित्’ (वा० ३.२.३८) । ‘अरुर्दिष-' (६.३.६७) इति मुम् ॥


प्रक्रिया

धातुः -


गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुर + टा + गम् + खच् - गमश्च 3.2.47, उपपदमतिङ् 2.2.19
तुर + गम् + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
तुर + गम् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तुर + ग् + अ - टेः 6.4.143
तुर + मुम् + ग् + अ - अरुर्द्विषदजन्तस्य मुम् 6.3.67
तुर + म् + ग् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुरंग - नश्चापदान्तस्य झलि 8.3.24
तुरङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
तुरङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुरङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुरङ्ग + रु - ससजुषो रुः 8.2.66
तुरङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुरङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15