गजबन्धनी

सुधाव्याख्या

बध्यतेऽस्याम् । ‘बन्ध बन्धने' (क्र्या० प० अ०) । अधिकरणे ल्युट् (३.३.११७) । गजस्य बन्धनी ॥


प्रक्रिया

धातुः -


बन्धँ बन्धने
बन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बन्ध् + ल्युट् - करणाधिकरणयोश्च 3.3.117
बन्ध् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
बन्ध् + अन - युवोरनाकौ 7.1.1
बन्धन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
बन्धन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
बन्धन् + ई - यस्येति च 6.4.148
गज + ङस् + बन्धनी + सु - षष्ठी 2.2.8
गज + बन्धनी - सुपो धातुप्रातिपदिकयोः 2.4.71
गजबन्धनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गजबन्धनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गजबन्धनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68