अमरकोशः


श्लोकः

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सिंह सिंहः पुंलिङ्गः सिञ्चति । उणादिः अकारान्तः
2 मृगेन्द्र मृगेन्द्रः पुंलिङ्गः मृगाणामिन्द्रः ॥ तत्पुरुषः समासः अकारान्तः
3 पञ्चास्य पञ्चास्यः पुंलिङ्गः पञ्च विस्तृतमास्यमस्य । बहुव्रीहिः समासः अकारान्तः
4 हर्यक्ष हर्यक्षः पुंलिङ्गः हरिणी पिङ्गले अक्षिणी यस्य । बहुव्रीहिः समासः अकारान्तः
5 केसरिन् केसरी पुंलिङ्गः केसराः स्कन्धबालाः सन्त्यस्य । इनि तद्धितः नकारान्तः
6 हरि हरिः पुंलिङ्गः हरति । उणादिः इकारान्तः
7 शार्दूल शार्दूलः पुंलिङ्गः शारयति । तत्पुरुषः समासः अकारान्तः
8 द्वीपिन् द्वीपी पुंलिङ्गः द्वौ वर्णी ईयते । तत्पुरुषः समासः नकारान्तः
9 व्याघ्र व्याघ्रः पुंलिङ्गः व्याजिघ्रति । उणादिः अकारान्तः
10 तरक्षु तरक्षुः पुंलिङ्गः तरं गतिं मार्ग वा क्षिणोति । डु कृत् उकारान्तः
11 मृगादन मृगादनः पुंलिङ्गः मृगमत्ति । तत्पुरुषः समासः अकारान्तः