हरिः

सुधाव्याख्या

हरति । ‘अच इः' (उ० ४.१३९) । ‘हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु । कपौ सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवत् पिङ्गहरितोः (इति मेदिनी) ॥