व्याघ्रः

सुधाव्याख्या

व्याजिघ्रति । 'घ्रा गन्धोपादाने' (भ्वा० प० अ०) । ‘व्याङि घ्रातेश्च जातौ' (उ० ५.६३) इति कः । यद्वा ‘आतश्वोपसर्गे (३.१.१३६) इति कः । ‘पाघ्रा-' (३.१.१३७) इति शो न । ‘जिघ्र: संज्ञायाम्-' (वा० ३.१.१३७) इति निषेधात् । 'व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकार्या तु योषिति' (इति मेदिनी) ॥