शार्दूलः

सुधाव्याख्या

शार्द्विति । शारयति । 'शॄ हिंसायाम्' (क्र्या० प० से०) । स्वार्थणिचः क्विप् । दूयते । ‘दूङ् परितापे' (दि० आ० से०) । अन्तर्भावितण्यर्थः । बाहुलकाल्लक् । यद्वा शृणाति । पिञ्जाद्यूलच् (उ० ४.९०) बाहुलकाद्दुक्वृद्धी । ‘शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थित:' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


शॄ हिंसायाम्
शॄ + णिच् - हेतुमति च 3.1.26
शॄ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शार् + इ - अचो ञ्णिति 7.2.115
शार् + इ + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
शार् + क्विप् - णेरनिटि 6.4.51
शार् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शार् + व् - वेरपृक्तस्य 6.1.67
दूङ् परितापे
दू - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दू + लक् - बाहुलकात् ।
दूल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शार्दूल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शार्दूल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शार्दूल + रु - ससजुषो रुः 8.2.66
शार्दूल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शार्दूलः - खरवसानयोर्विसर्जनीयः 8.3.15