तरक्षुः

सुधाव्याख्या

तरेति । तरं गतिं मार्ग वा क्षिणोति । ‘क्षिणु हिंसायाम्' (ते० उ० से०) । मितद्रवादिडुः (वा० ३.२.१८०) ॥


प्रक्रिया

धातुः -


क्षिणुँ हिंसायाम्
क्षिण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तर + अम् + क्षिण् + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
तर + क्षिण् + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
तर + क्षिण् + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
तर + क्ष् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
तरक्षु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तरक्षु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तरक्षु + रु - ससजुषो रुः 8.2.66
तरक्षु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तरक्षुः - खरवसानयोर्विसर्जनीयः 8.3.15